________________
५१२ ___ संहननम् अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेय: शक्तिविशेष इत्यन्ये, तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टः, नाराच: उभयतो मर्कटबन्धः, यत्र द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वऋषभनाराचं प्रथमम्, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयम्, यत्र तूभयोमर्कटबन्ध एव तन्नाराचं तृतीयम्, यत्र त्वेकतो मर्कटबन्धो द्वितीयपार्श्वे कीलिका तदर्द्धनाराचं चतुर्थम्, कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामार्तं सेवामागतमिति सेवार्तं षष्ठम्, शक्तिविशेषपक्षे त्वेवंविधदार्वादेरिव दृढत्वं संहननमिति ।
संस्थानं शरीराकृतिरवयवरचनात्मिका, तत्र समा: शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽश्रयो यस्य तत् समचतुरश्रम्, अश्रिस्त्विह चतुर्दिग्विभागोपलक्षिता: शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरश्रम्, तथा न्यग्रोधवत् परिमण्डलं न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णावयव: अधस्तनभागे पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग् अधस्तु हीनाधिकप्रमाणमिति, तथा सादीति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, तेनाऽऽदिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत सादि, सर्वमेव हि शरीरमविशिष्टेनाऽऽदिना सह वर्त्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अत: सादि उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः, खुजे त्ति अधस्तनकायमडहम्, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते, तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारि यत् पुनः शेषं तद्यथोक्तप्रमाणं तत् कुब्जमिति, वामणे त्ति मडहकोष्ठम्, यत्र हि पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपेतं यत् पुन: शेष कोष्ठं तन्मडहं न्यूनाधिकप्रमाणं तद्वामनम्, हुंडे त्ति सर्वत्रासंस्थितम्, यस्य हि प्रायेणैकोऽप्यवयव: शरीरलक्षणोक्तप्रमाणेन न संवदति तत् सर्वत्रासंस्थितं हुंडमिति । ___ अणत्तवओ त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्, तद्वान्न भवति य: सोऽनात्मवान् सकषाय इत्यर्थः, तस्य अहिताय अपथ्याय अशुभाय पापाय असुखाय वा दुःखाय अक्षमाय असङ्गतत्वाय अक्षान्त्यै वा अनिःश्रेयसाय