________________
षष्ठमध्ययनं षट्स्थानकम् ।
अकल्याणाय अननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, पर्यायो जन्मकाल: प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यम्, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहबलिन:, एवमन्येऽपि यथासम्भवं वाच्या:, नवरं परियाले त्ति परिवार: शिष्यादिः, श्रुतं पूर्वगतादि, उक्तं चजह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धतपडिणीओ ॥ [सम्मति० ३।६६] इति । तप: अनशनादि, लाभोऽन्नादीनाम्, पूजा स्तवादिरूपा, तत्पूर्वक: सत्कारो वस्त्राभ्यर्चनम्, पूजायां वा आदर: पूजासत्कार इति ।
जाति: मातृक: पक्षः, तया आर्याः अपापा निर्दोषा जात्यार्या: विशुद्धमातृका इत्यर्थः, अंबढेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्या:, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुति:, तेषां जातय इभ्यजातयस्ता एता इति ।
कुलं पैतृक: पक्ष:, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च, ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च, इक्ष्वाकव: प्रथमप्रजापतिवंशजा:, ज्ञाता: कुरवश्च महावीर-शान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः ।
[सू० ४९८] छव्विधा लोगट्ठिती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्ठिए उदधी, उदधिपतिट्टिता पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, अजीवा जीवपइट्ठिया, जीवा कम्मपतिट्ठिया ।
[टी०] इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्या तामेवाहछव्विहेत्यादि, इदं पूर्वमेव व्याख्यातम्, नवरमजीवा औदारिकादिपुद्गलास्ते जीवेषु प्रतिष्ठिताः आश्रिता:, इदं चानवधारणं बोद्धव्यम्, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरहतोऽपि त्रस-स्थावरवदिति, तथा जीवा: कर्मसु