SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५१४ ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति । [सू० ४९९] छद्दिसाओ पन्नत्ताओ, तंजहा-पातीणा पडीणा दाहिणा उदीणा उड्डा अधा । छहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा-पायीणाए जाव अधाए १। एवमागती २, वक्कंती ३, आहारे ४, वुड्डी ५, निवुड्डी ६, विगुव्वणा ७, गतिपरिताते ८, समुग्धाते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, अजीवाभिगमे १४ । एवं पंचेंदियतिरिक्खजोणियाण वि मणुस्साण वि । [टी०] अनन्तरं कर्मप्रतिष्ठिता जीवा उक्ताः, तेषां च दिक्ष्वेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह– छहिसाओ इत्यादि सूत्रकदम्बकम्, इदं च त्रिस्थानक एव व्याख्यातम्, तथापि किञ्चिदुच्यते- प्राचीना पूर्वा, प्रतीचीना पश्चिमा, दक्षिणा प्रतीता, उदीचीना उत्तरा, ऊर्ध्वमधश्चेति प्रतीते, विदिशो न दिशो विदिक्त्वादेवेति षडेवोक्ताः, अथवा आभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतय: पदार्था: प्राय: प्रवर्त्तन्ते, षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति । ___ षड्भिर्दिग्भिर्जीवानां गति: उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्ध एव, व्युत्क्रान्ति: उत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि ऋजुगतौ षट्स्वेव दिक्षु, तथा आहारः प्रतीत:, सोऽपि षट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं षट्दिक्ता यथासम्भवं वृद्ध्यादिष्वप्यूह्येति, तथा वृद्धिः शरीरस्य, निवृद्धिः हानिस्तस्यैव, विकुर्वणा वैक्रियकरणम्, गतिपर्यायो गमनमानं न परलोकगमनरूप: तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्घातो वेदनादिक: सप्तविध:, कालसंयोग: समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षण:, दर्शनं सामान्यग्राही बोध:, तच्चेह गुणप्रत्ययावध्यादिप्रत्यक्षरूपम्, तेनाभिगमो वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगम: पुद्गलास्तिकायाद्यधिगम:, सोऽपि तथैवेति,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy