________________
षष्ठमध्ययनं षट्स्थानकम् ।
५१५ एवमिति यथा ‘छहिं दिसाहिं जीवाणं गई पवत्तई' त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां ‘पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवात्, तथाहि-नारकादीनां द्वाविंशतेर्जीवविशेषाणां नारक-देवेषुत्पादाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शन-ज्ञान-जीवा-ऽजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा न सन्त्येव तेषाम्, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधोऽवधय: शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति ।
[सू० ५००] छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे णातिक्कमति, तंजहा
वेयण-वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥४३॥ छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे णातिक्कमति, तंजहाआतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीए । पाणिदयातवहेउं सरीरवोच्छेयणट्ठाए ॥४४॥ [टी०] अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणा-ऽग्रहणकारणानि सूत्रद्वयेनाह– छहीत्यादि कण्ठ्यम्, नवरमाहारम् अशनादिकमाहारयन् अभ्यवहरन्नातिक्रामत्याज्ञाम्, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथा- वेयणेत्यादिगाथा, वेदना च क्षुद्वेदना वैयावृत्यं च आचार्यादिकृत्यकरणं वेदनावैयावृत्यं तत्र विषये भुञ्जीत, वेदनोपशमार्थं वैयावृत्यकरणार्थं चेति भावः, ईर्या गमनं तस्या विशुद्धिर्युगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम्, बुभुक्षितो हीर्याशुद्धावशक्त: स्यादिति तदर्थमिति, च: समुच्चये, संयम: प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षण:, तदर्थम्, तथेति कारणान्तरसमुच्चये, प्राणा: उच्छ्वासादयो बलं वा प्राणस्तेषां तस्य वा वृत्ति: पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः, षष्ठं पुन: कारणं