________________
धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति ।
वोच्छिंदमाणे त्ति परित्यजन्, आतङ्के ज्वरादावुपसर्गे राज-स्वजनादिजनिते प्रतिकूला-ऽनुकूलस्वभावे तितिक्षणे अधिसहने, कस्याः ? ब्रह्मचर्यगुप्तेः मैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्यं सुरक्षितं स्यादिति, प्राणिदया च संपातिमत्रसादिसंरक्षणं तपः चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोर्दयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थं देहत्यागाय आहारं व्यवच्छिन्दन्नातिक्रामत्याज्ञामिति प्रक्रम: ।
[सू० ५०१] छहिं ठाणेहिं आता उम्मायं पाउणेजा, तंजहाअरहंताणमवण्णं वदमाणे १, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २, आयरियउवज्झायाणमवन्नं वदमाणे ३, चाउवण्णस्स संघस्स अवनं वदमाणे ४, जक्खावेसेण चेव ५, मोहणिजस्स चेव कम्मस्स उदएणं ६ ।
[टी०] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह- छहीत्यादि, इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्रायम्, नवरं षड्भि: स्थानैरात्मा जीव: उन्मादम् उन्मत्ततां प्राप्नुयात्, उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं अवर्णवादतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहरूपो भवेदिति, [पाठान्तरेण उम्मायपमायं ति उन्मादः सग्रहत्वं स एव प्रमादः प्रमत्तत्वम् आभोगशून्यतोन्मादप्रमादः,] अथवोन्मादश्च प्रमादश्च अहितप्रवृत्ति-हिताप्रवृत्ती, उन्मादप्रमादं प्राप्नुयादिति, अवन्नं ति अवर्णम् अश्लाघामवज्ञां वा वदन् व्रजन् वा कुर्वन्नित्यर्थः, धम्मस्स त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च, चतुर्वर्णस्य श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव निमित्तान्तरकुपितदेवाधिष्ठितत्वेन, मोहनीयस्य मिथ्यात्व-वेदशोकादेरुदयेनेति ।
[सू० ५०२] छव्विधे पमाते पन्नत्ते, तंजहा-मज्जपमाते णिद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए ।
[टी०] उन्मादसहचर: प्रमाद इति तमाह- छव्विहेत्यादि, षड्विधः षट्प्रकार: