________________
षष्ठमध्ययनं षट्स्थानकम् ।
५१७ प्रमदनं प्रमादः प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा- मद्यं सुरादि, तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादः, यत आहचित्तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ [ ] इति । एवं सर्वत्र, नवरं निद्रा प्रतीता । विषयाः शब्दादयः, तेषां चैवं प्रमादताविषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ [ ] कषाया: क्रोधादयः, तेषामप्येवं प्रमादताचित्तरत्नमसक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ [हारि० अष्टक० २४।७] इति । द्यूतं प्रतीतम्, तदपि प्रमाद एव, यत:द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष नामापि च विनश्यति ॥ [ ] इति । तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्र-पात्राद्युपकरणानामशन-पानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्ग-निषदन-शयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकरणार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्मजागरिकादिरूपा । तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञातिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेन च प्रमार्जना-भिक्षाचर्यादिषु इच्छाकार-मिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षित:, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति। [सू० ५०३] छव्विधा पमायपडिलेहा पन्नत्ता, तंजहा
आरभडा, संमद्दा, वजेतव्वा य मोसली ततिता । पप्फोडणा चउत्थी, वक्खित्ता, वेतिया छट्ठा ॥४५॥