________________
४३९
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । सकषाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक् कषायोदयनिरोधादिना सहेत भयाभावेनाविचलनाद् भटं भटवत्, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति । उदीर्णम् उदितं प्रबलं वा कर्म मिथ्यात्वमोहनीयादि यस्य स उदीर्णका खलुक्यालङ्कारे अयं प्रत्यक्षः पुरुषः, उन्मत्तको मदिरादिना विप्लुतचित्त:, स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतः, [भूतशब्दस्य प्रकृत्यर्थत्वात्,] तेण त्ति उदीर्णका यतोऽयमुन्मत्तकभूत: पुरुष: तेन कारणेन मे इति माम् एष: अयमाक्रोशति शपति अपहसति उपहासं करोति अपघर्षति वा अपघर्षणं करोति, निश्छोटयति सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्ज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवे: शरीरावयवस्य हस्तादेः छेदं करोति, मरणप्रारम्भ: प्रमारो मूर्छाविशेषो मारणस्थानं वा तं नयति प्रापयतीति, अपद्रावयति मारयति, उद्दवेइ त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं रजोहरणम् आच्छिनत्ति बलादुद्दालयति, विच्छिनत्ति विच्छिन्नं करोति, दरे व्यवस्थापयतीत्यर्थः, भिनत्ति पात्रं स्फोटयति, अपहरति चोरयति, वाशब्दा: सर्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानम्, इदं चाक्रोशादिकम् इह प्राय आक्रोश-वधाभिधानपरीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १, तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयम् २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्ती ममं च णं ति मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते अनुभूयते यत्तत्तद्भववेदनीयं कर्म उदीर्णं भवति अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयम् ३, तथा एष बालिश: पापाभीतत्वात् करोतु नामाक्रोशनादि, मम पुनरसहमानस्य किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थ: कज्जइ त्ति सम्पद्यते, इह विनिश्चयमाह- एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म असातादि क्रियते संपद्यत इति चतुर्थम् ४, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमम् ५। इच्चेयेहीत्यादि निगमनमिति । शेष सुगमम्।