________________
५७४ दुःखिता दुःखितत्वं दु:खकारित्वं वा द्रोहकत्वं वा, एवं वइदुहयेत्यपि व्याख्येयमिति । सम्मं ति सम्यग्भावं विनयमित्यर्थः।
[सू० ५६०] सत्तविधा संसारसमावनगा जीवा पन्नत्ता, तंजहा-नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीतो, मणुस्सा, मणुस्सीओ, देवा, देवीओ।
[टी०] एते च दुष्षमा-सुषमे संसारिणां दु:खाय सुखाय चेति संसारिप्ररूपणायाहसत्तेत्यादि कण्ठ्यम् । [सू० ५६१] सत्तविधे आउभेदे पन्नत्ते, तंजहाअज्झवसाण-निमित्ते आहारे वेयणा-पराघाते । फासे आणापाणू सत्तविधं भिज्जए आउं ॥८४॥ [टी०] संसारिणां च संसरणम् आयुर्भेदे सति भवतीति दर्शनायाह– सत्तेत्यादि, तत्र आउयभेदे त्ति आयुषो जीवितव्यस्य भेदः उपक्रम: आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति । अज्झवसाण गाहा, अध्यवसानं रागस्नेह-भयात्मकोऽध्यवसायो निमित्तं दण्ड-कश-शस्त्रादीति समाहारद्वन्द्वः, तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे भोजनेऽधिके सति, तथा वेदना नयनादिपीडा, पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव, तत्र सति, तथा स्पर्श तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा आणापाणु त्ति उच्छ्वास-नि:श्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति । प्रथमैकवचनान्तत्वादध्यवसानादिपदानाम्, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेद: सोपक्रमायुषामेव नेतरेषामिति । आह– यद्येवं भिद्यते आयुस्तत: कृतनाशोऽकृताभ्यागमश्च स्यात्, कथम् ?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात् कृतनाशो येन च कर्मणा तद् भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः, ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह चकम्मोवक्कामिजइ अपत्तकालं पि जइ तओ पत्ता । अकयागमकयनासा मोक्खाणासासओ दोसा ॥ [विशेषाव० २०४७]