________________
सप्तममध्ययनं सप्तस्थानकम् ।
५७३
सप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्य-मध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति।
तथा परिभाषणं परिभाषा अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानम्, तथा मण्डलबन्धो मण्डलम् इङ्गितं क्षेत्रम्, तत्र बन्धो नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणम्, पुरुषमण्डलपरिवारणलक्षणो वा, चारकम् गुप्तिगृहम्, छविच्छेदो हस्त-पाद-नासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये।।
चक्करयणेत्यादि, रत्नं निगद्यते तत् जातौ यदुत्कृष्टम् [ ] इति वचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि पृथिवीपरिणामरूपाणि, तेषां च प्रमाणम्
चक्कं छत्तं दंडो तिन्नि वि एयाई वामतुल्लाई । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ वित्थिन्नो । चउरंगुलप्पमाणा सुवन्नवरकागणी नेया ॥ [बृहत्सं० ३०१-२]
सेनापति: सैन्यनायकः, गृहपति: कोष्ठागारनियुक्तः, वर्द्धकी सूत्रधारः, पुरोहित: शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति ।
[सू० ५५९] सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, तंजहा-अकाले वरिसइ, काले ण वरिसइ, असाधू पुजंति, साधु ण पुजंति, गुरूहि जणो मिच्छं पडिवन्नो, मणोदुहता, वतिदुहता ।
सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेजा, तंजहा-अकाले न वरिसइ, काले वरिसति, असाधू ण पुजंति, साधू पुजंति, गुरूहि जणो सम्मं पडिवन्नो, मणोसुहता, वतिसुहता ।
[टी०] सुगमे सूत्रे किन्तु ओगाढं ति अवतीर्णाम् अवगाढां वा प्रकर्षप्राप्तामिति । अकाल: अवर्षाः । असाधव: असंयता: । गुरुषु माता-पितृ-धर्माचार्येषु मिच्छं मिथ्याभावं विनयभ्रंशमित्यर्थः प्रतिपन्न: आश्रित: । मणोदुहय त्ति मनसो मनसा वा