________________
५७२
एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स सत्त पंचेंदियरतणा पन्नत्ता, तंजासेणावतीरतणे, गाहावतिरतणे, वडतिरयणे, पुरोहितरयणे, इत्थिरतणे, आसरतणे, हत्थिरयणे ।
[टी०] मनुष्यक्षेत्राधिकारात्तद्गतकुलकर- कल्पवृक्ष-नीति- रत्न- दुष्षमादिलिङ्गसूत्राणि, पाठसिद्धानि चैतानि, नवरम् आगमिस्सेण होक्खड़ त्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः, तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्वं दशविधा अभूवन्, रुक्ख त्ति कल्पवृक्षाः, उवभोगत्ताए त्ति उपभोग्यतया हव्वं शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः ।
मत्तंगया य गाहा, मत्तंगया इति मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूताः कारणभूताः, तदेव वाऽङ्गम् अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, भिंग त्ति संज्ञाशब्दत्वाद् भृङ्गारादि - विविधभाजनसम्पादका भृङ्गाः, चित्तंग त्ति चित्रस्य अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, चित्तरस त्ति चित्रा विचित्रा रसा मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसा:, मणियंग त्ति मणीनाम् आभरणभूतानामङ्गभूताः कारणभूताः मणयो वा अङ्गानि अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, अणियण त्ि अनग्नकारकत्वादनग्ना विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, कप्परुक्ख उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा
इति ।
[दंडनीइ त्ति] दण्डनं दण्डः अपराधिनामनुशासनम्, तत्र तस्य वा स एव वा नीति: नयो दण्डनीतिः, हक्कारे त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः- प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्रम्, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न वर्त्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणम् अभिधानं माकारः, तृतीय- चतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव, तस्य करणम् उच्चारणं धिक्कारः, पञ्चम-षष्ठ