________________
प्रकाशकीयम् अंधयारे दुरुत्तारे घोरे संसार सागरे ।
एसो चेव महादीवो लोयालोयावलोयणो ॥ जिनागमो नाम महाद्वीपः, यो व्यसनशतसहस्रपरिपूरितसंसारसागर आश्वासहेतुः। एष एव च महाप्रदीपोऽपि, यो मोहान्धकारगहने भवारण्ये भ्राम्यतां तत्तदुपद्रवसन्दोहविषयीभवतां जन्तूनां रक्षार्थं प्रकाशहेतुः। ऐदंयुगीनेऽपि समये भगवद्वचनविसरात्मकमागमसमूहमवाप्य कृतार्थप्रायाः खलु सिद्धान्ताध्येतारः। अपि चैतद् रूपेण साक्षाद् भगवतैव कृतोऽत्रावतार इत्युक्तौ न कोऽपि दोषः, यद् हारिभद्रं वचः अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति। हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः - इति (षोडशके)।
____न ह्यतोऽपि परः कोऽपि सिद्धिहेतुरिति सीमातीत एतत्प्रकाशनेऽस्माकं संलादः। पुण्यावरेऽस्मिन् प्रस्तुतग्रन्थमूलकार-पञ्चमगणधर-श्रुतकेवलि-सर्वलब्धिनिधान-श्रीसुधर्मस्वामिनां मूलटीकाकार-चान्द्रकुलीनाचार्यवर्यश्रीअभयदेवसूरिवराणाम्, प्रस्तुतटीकाकार-परमपूजनीयगणिप्रवरश्रीनगर्षिपादानां, संशोधक-सकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिवराणां, प्रस्तुतप्रकाशनसंशोधक-सम्पादकानां च पूजनीयमुनिप्रवरश्रीधर्मप्रेमवजियानां कृतज्ञतया विदधामः संस्मृतिम्। प्रस्तुतसम्पादने परमपूजनीयमुनिप्रवरश्रीमित्रानन्दविजयपादैः (पाश्चात्यपर्याये सूरिवरैः) सम्पादिता दीपिकावृत्तिः, बहुश्रुतमुनिप्रवरश्रीजम्बूविजयपादैः सम्पादिता श्रीमदभयदेवसूरीयवृत्तिश्चोपयुक्ताः, अतस्तत्तत्पूज्यानामपि भावसारं संस्मृतिं विदधामः।
- श्रीजिनशासनआराधनाट्रस्ट