SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ५६८ नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति । तथा सत्तसरसीभरं ति सप्त स्वरा: सीभरं ति अक्षरादिभि: समा यत्र तत् सप्तस्वरसीभरम्, ते चामी अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५। नीससिऊससियसमं ६ संचारसमं ७ सरा सत्त ॥ [अनुयोग० सू० २६० (१०)] त्ति । इयं च गाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापि इहाऽक्षरसममित्यादिः कृत्वा व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वर: क्रियते इस्वे हस्व: प्लुते प्लुत: सानुनासिके सानुनासिक: तदक्षरसमम्, तथा यद् गेयपदं नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत् पदसममिति, यत् परस्पराहतहस्ततालस्वरानुवर्ति भवति तत्तालसमम्, शृङ्ग-दार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्या: स्वरप्रकारो लयस्तमनुसरतो गातुर्यद् गेयं तल्लयसमम्, प्रथमतो वंश-तन्त्र्यादिभिर्य: स्वरो गृहीतस्तत्समं गीयमानं ग्रहसमम्, नि:श्वसितोच्छ्वसितमानमनतिक्रामतो यद् गेयं तन्नि:- श्वसितोच्छ्वसितसमम्, तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत् सञ्चारसमम्, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याह- निद्दोसं सिलोगो, तत्र निर्दोषम् अलियमुवघायजणयं [आव० नि० ८८१-८८४, बृहत्कल्प० २७८-२८१] इत्यादिद्वात्रिंशत्सूत्रदोषरहितम् १, सारवद् अर्थेन युक्तम् २, हेतुयुक्तम् अर्थगमककारणयुक्तम् ३, अलङ्कृतं काव्यालङ्कारयुक्तम् ४, उपनीतम् उपसंहारयुक्तम् ५, सोपचारम् अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोत्प्रासं वा ६, मितं पद-पादा-ऽक्षरैः, नापरिमितमित्यर्थः ७, मधुरम् त्रिधा शब्दा-ऽर्था-ऽभिधानतः ८, गेयं भवतीति शेषः। तिन्नि य वित्ताइं ति यदुक्तं तद्व्याख्या- समं सिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु गुरुलघुभिः, अर्द्धसमं त्वेकतरसमम्, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते- समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथम-तृतीययोर्द्वितीय-चतुर्थयोश्च समत्वम्, तथा सर्वत्र सर्वपादेषु विषमं
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy