________________
सप्तममध्ययनं सप्तस्थानकम् ।
५६९
च विषमाक्षरं यद् यस्माद् वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि पद्यप्रकाराः, अत एव चतुर्थं नोपलभ्यत इति ।
दोन्नि य भणिईओ त्ति, अस्य व्याख्या- सक्कया सिलोगो, भणिति: भाषा आहिया आख्याता स्वरमण्डले षड्जादिस्वरसमूहे, शेषं कण्ठ्यम् । कीदृशी स्त्री कीदृशं गायतीति प्रश्नमाह- केसी गाहा, केसि त्ति कीदृशी खरं ति खरस्थानं रूक्षं प्रसिद्धं चतुरं दक्षं विलम्बं परिमन्थरं द्रुतं शीघ्रमिति । विस्सरं पुण केरिसि त्ति गाथाधिकमिति । उत्तरमाह- सामा गाहा कण्ठ्या, पिंगल त्ति कपिला ।
तंति गाहा, तन्त्रीसमं वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेषं प्राग्वत्, नवरं पादो वृत्तपाद:, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीयम्, तथा गेयस्य स्वरानन्तरत्वादुक्तं संचारसमा सरा सत्त त्ति, अन्यथा सञ्चारसममिति वाच्यं स्यात्, तंतिसमा तालसमेत्यादि वेति ।
अयं च स्वरमण्डलसक्षेपार्थ:- सत्त सरा सिलोगो, तता तन्त्री तानो भण्यते, तत्र षड्जादिः स्वर: प्रत्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत् ताना: सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । स्वरप्रकरणं समाप्त।
[सू०५५४] सत्तविधे कायकिलेसे पन्नत्ते, तंजहा-ठाणातिते, उक्कुडुयासणिते, पडिमट्ठाती, वीरासणिते, णेसजिते, दंडायतिए, लगंडसाती ।
[टी०] अनन्तरं गानतो लौकिक: कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाहसत्तविहेत्यादि, प्राय: प्रांगेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य शरीरस्य क्लेशः खेद: पीडा कायक्लेशो बाह्यतपोविशेषः, स्थानायतिकः [स्थानातिग: स्थानातिदो वा] कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुपन्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्य: स्यात्, न तद्वान्, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र, उत्कुटुकासनिकः प्रतीतः, तथा प्रतिमास्थायी भिक्षुप्रतिमाकारी, वीरासनिको य: सिंहासननिविष्ट इवाऽऽस्ते, नैषधिकः समपद-पुतादिनिषद्योपवेशी, १. सू० ३९६ ॥