________________
६६४
नगर्या: अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणित:, यथा- सुलसाश्राविकाया: कुशलवार्ता कथये:, स च चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथ: स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण इति तावत् सम्यक्त्वं परीक्षे, तत: परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ- आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्- येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत्, लोकस्तं पप्रच्छ– कस्य भगवन् ! भोजनेन भागधेयवत्तां मासक्षपणपर्यन्ते संवर्द्धयिष्यति ?, स प्रतिभणति स्म- सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि– किं पाषण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेऽपि न दृष्टिव्यामोहमगमदिति, ततो लोकेन सहासौ तद्गहे नैषधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत्, तेनाप्यसावुपबृंहितेति, यश्चौपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि आर्यिकाऽपि सुपार्थाभिधाना पार्थापत्यीया पार्श्वनाथशिष्यशिष्या। चत्वारो यामा महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति ५, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित् केचित्तु केवलित्वेन, भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थम्मी ]ति वचनादिति भाव:, शेषं स्पष्टम्।
[सू० ६९३] एस णं अजो ! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चउरासीतिवाससहस्सट्टितीयंसि निरयंसि नेरइएसु णेरइयत्ताए उववजिहिति, से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं, से णं तत्थ वेदणं वेदिहिती उज्जलं जाव दुरहियासं ।
से णं ततो नरतातो उव्वदे॒त्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भरहे वासे वेयद्दगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे णगरे संमुइस्स