________________
७४४
[टी०] यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याहदसविहेत्यादिसूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो वर्तमान: समय: तत्रोपपन्नका अनन्तरोपपन्नका: येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां व्यादय: समया जातास्ते परम्परोपपन्नका: परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा: अवस्थिता अनन्तरावगाढाः, अथवा प्रथमसमयावगाढा अनन्तरावगाढाः, एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान् अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्वं व्यवहितान् सत: पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारका: इतरे त्वितरे, अयं तु द्रव्यकृतो भेद इति । न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तराः, ते च ते पर्याप्तकाश्चेति अनन्तरपर्याप्तकाः प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारक-भवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावः, तद्विपरीता अचरमा:, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । एवमित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपि योजनीयमिति ।
दण्डकस्यादौ दशधा नारका उक्ताः, अथ तदाधारान् नारकादिस्थितिं च दशस्थानानुपाततो निरूपयन् चउत्थीयेत्यादिसूत्राष्टादशकमाह, सुगमम् ।।
[सू० ७५८] दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नताते, जोगवाहियताते, खंतिखमणताते, जितिंदियताते, अमाइल्लताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छल्लयाते, पवयणउब्भावणताए ।
[टी०] अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याहदसहीत्यादि, आगमिष्यद् आगामिभवान्तरभावि भद्रं कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भाव आगमिष्य