________________
दशममध्ययन दशस्थानकम् ।
७४५
द्भद्रता, तस्यै आगमिष्यद्भद्रतायै, तदर्थमित्यर्थः, आगमिष्यद्भद्रतया वा कर्म शुभप्रकृतिरूपं प्रकुर्वते बध्नन्ति, तद्यथा- निदायते लूयते ज्ञानाद्याराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानम्, अविद्यमानं तद्यस्य सोऽनिदानः, तद्भावस्तत्ता, तया हेतुभूतया, निरुत्सुकतयेत्यर्थ: १। दृष्टिसम्पन्नतया सम्यग्दृष्टितया २ । योगवाहितया श्रुतोपधानकारितया योगेन वा समाधिना [सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही, तद्भावस्तत्ता, तया] ३। क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छे दार्थं यतोऽसमर्थोऽपि क्षमत इति, क्षान्तिक्षमणस्य भावस्तत्ता, तया ४ । जितेन्द्रियतया करणनिग्रहेण ५। अमाइल्लयाए त्ति, माइल्लो मायावांस्तत्प्रतिषेधेनामायावान्, तद्भावस्तत्ता, तया ६ । पार्श्वे बहिर्ज्ञानादीनां देशत: सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च
सो पासत्थो दुविहो इत्यादि । पार्श्वस्थस्य भाव: पार्श्वस्थता, न साऽपार्श्वस्थता, तया ७ । तथा शोभनः पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च साधुः सुश्रमणः, तद्भावस्तत्ता, तया ८ । तथा प्रकृष्ट प्रशस्त प्रगतं वा वचनम् आगम: प्रवचनं द्वादशाङ्ग तदाधारो वा सङ्घः, तस्य वत्सलता हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता, तया ९ । तथा प्रवचनस्य द्वादशाङ्गस्योद्भावनं प्रभावनं प्रावचनिकत्वधर्मकथा-वादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनम्, तदेव प्रवचनोद्भावनता, तयेति १० ।
[सू० ७५९] दसविहे आससप्पओगे पन्नत्ते, तंजहा-इहलोगासंसप्पओगे, परलोगासंसप्पओगे, दुहतो लोगासंसप्पओगे, जीवितासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारासंसप्पओगे ।
टी०] एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह- दसेत्यादि, आशंसनमाशंसा इच्छा, तस्याः प्रयोगो व्यापारणं करणम्, आशंसैव वा प्रयोगो व्यापार: आशंसाप्रयोग:, सूत्रे च प्राकृतत्वात् आससप्पओगे