________________
सप्तममध्ययनं सप्तस्थानकम् ।
५५७
अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्या बादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां बाहल्यं विंशतिर्योजनसहस्राणि घन-तनुवाता-ऽऽकाशान्तराणामसङ्ख्यातानि तानि, आह चसव्वे वीससहस्सा बाहल्लेणं घनोदधी नेया । सेसाणं तु असंखा अहो अहो जाव सत्तमिया ॥ [बृहत्सं० २४२] इति । तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रम्, तस्य संस्थानम् आकार: ‘अधस्तनं छत्रं महदुपरितनं लघु' इति, तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवतिसप्तमी सप्तरज्जुविस्तृता षष्ठ्यादयस्त्वेकैकरज्जुहीना इति, नामधेज त्ति नामान्येव नामधेयानि, गोत्त त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोन्नेयः।
[सू० ५४७] सत्तविहा बादरवाउकाइया पन्नत्ता, तंजहा-पातीणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, उड्डेवाते, अहेवाते, विदिसिवाते ।
[टी०] सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाह- सत्तविहा बायरेत्यादि, सूक्ष्माणां न भेदोऽस्ति ततो बादरग्रहणम्, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति ।
[सू० ५४८] सत्त संठाणा पन्नत्ता, तंजहा-दीहे, रहस्से, वट्टे, तंसे, चउरंसे, पिहुले, परिमंडले ।
[सू० ५४९] सत्त भयट्ठाणा पन्नत्ता, तंजहा-इहलोगभते, परलोगभते आदाणभते, अकम्हाभते, वेयणाभते, मरणभते, असिलोगभते ।
[टी०] वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थान-भयसूत्रे सुगमे, संस्थानानि च प्रतीतानि, तद्विशेषा: प्रतर-घनादयोऽन्यतो ज्ञेया: । सत्त भयट्ठाणेत्यादि, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानानि आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद् भयं तदिहलोकभयम्, इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात् तिर्यग्-देवादेः सकाशान्मनुष्यादीनां यद् भयं तत् परलोकभयम्, आदीयत इत्यादानं