________________
५५८ धनं तदर्थं चौरादिभ्यो यद् भयं तदादानभयम्, अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम्, वेदना पीडा, तद्भयं वेदनाभयम्, मरणभयं प्रतीतम्, अश्लोकभयम् अकीर्तिभयम्, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्त्तत इति ।
[सू० ५५०] सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तंजहा-पाणे अतिवातेत्ता भवति, मुसं वदित्ता भवति, अदिन्नमातित्ता भवति, सद्द-फरिस-रस-रूवगंधे आसादेत्ता भवति, पूतासक्कारमणुव्हेत्ता भवति, इमं सावजं ति पण्णवेत्ता पडिसेवेत्ता भवति, णो जधावादी तधाकारी यावि भवति ।
सत्तहिं ठाणेहिं केवली जाणेज्जा, तंजहा-णो पाणे अतिवातेत्ता भवति जाव जधावादी तधाकारी यावि भवति ।
[टी०] भयं च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह- [सत्तहिं ठाणेहिं इत्यादि] सुगमम्, सप्तभि: स्थानैर्हेतुभूतैः छद्मस्थं जानीयात्, तद्यथाप्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्माधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वदिता भवति, अदत्तमादाता ग्रहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं पुष्पार्चन-वस्त्राद्यर्चने अनुबंहयिता परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावा सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथावादी तथाकारी, अन्यथाभिधायाऽन्यथा कर्ता भवति, चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीत्येतत्प्रतिपादनपरं केवलिसूत्रं सुगममेव ।
[सू० ५५१] सत्त मूलगोत्ता पन्नत्ता, तंजहा-कासवा, गोतमा, वच्छा, कोच्छा, कोसिता, मंडवा, वासिट्ठा ।
जे कासवा ते सत्तविधा पन्नत्ता, तंजहा-ते कासवा, ते संडिल्ला, ते