________________
७३८
च विजयराजपरिणीता योनिशूलेन कृच्छ्रे जीवित्वा नरकं गतेति,] अत एव विपाकश्रुते अञ्जू इति दशममध्ययनमुच्यत इति १० ।
उपासकदशा विवृण्वन्नाह– दसेत्यादि, आनंदे सार्ध: श्लोकः, आनंदे इत्यादि सर्वमुपासकदशासूत्रतोऽवसेयमिति।
अथान्तकृद्दशानामध्ययनविवरणमाह-अंतगडेत्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि, तानि चामूनि-नमीत्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयतेगोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १० ॥ [अन्तकृद्दशा] इति ।
ततो वाचनान्तरापेक्षाणीमानीति सम्भावयाम:, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यम्, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ।
अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह- अणुत्तरो इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्इसिदासेत्यादि, तत्र तु दृश्यते
धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पुट्टिके इय ॥ पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय ।
विहले दसमे वुत्ते, एमेए दस आहिया ॥ [अनुत्तरोपपातिकदशा ] इति । ___ तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यक-सुनक्षत्रकथानके एवम्- काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजित: षष्ठोपवासी उज्झिताहारीत्यादि वक्तव्यता निबद्धं एवं सुनक्षत्रोऽपीति । कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगात् परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान्, इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव, अयं पुनरन्योऽनुत्तरेषूपपन्न इति । शालिभद्र इति य: पूर्वभवे सङ्गमनामा वत्सपालोऽभूदि