________________
७१२ उप्पन्नविगतमीसते, जीवमीसए, अजीवमीसए, जीवाजीवमीसए, अणंतमीसए, परित्तमीसए, अद्धामीसते, अद्धद्धामीसते ।
[टी०] चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह- दसविहेत्यादि, सन्तः प्राणिन: पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत् प्रज्ञप्तम्, तद्यथाजणवय गाहा, जणवय त्ति सत्यशब्द: प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम्, यथा कोकणादिषु पय: पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, संमुइ त्ति संमतं च तत् सत्यं चेति सम्मतसत्यम्, तथाहिकुमुद-कुवलयोत्पल-तामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र [संमततया पङ्कजशब्द: सत्य: कुवलयादावसत्योऽसंमतत्वादिति], ठवण त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकार्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामे त्ति नाम अभिधानं तत् सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, रूवे त्ति रूपापेक्षया सत्यं रूपसत्यम्, यथा प्रपञ्चयति: प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, पडुच्चसच्चे य त्ति प्रतीत्य आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यम्, यथा अनामिकाया दीर्घत्वं हस्वत्वं चेति, ववहार त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिः, गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहार: प्रवर्त्तते, उदके च गलति सतीति, भाव त्ति भावभूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाके ति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, जोगे त्ति योगत: संबन्धत: सत्यं योगसत्यम्, यथा दण्डयोगाद् दण्ड: छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकार: प्रथमैकवचनार्थो द्रष्टव्य इति ।
सत्यविपक्षं मृषाह– दसेत्यादि, मोसे त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, कोहे