________________
दशममध्ययनं दशस्थानकम् ।
७११
उपष्टभ्यते संयम: संयमशरीरं वा येन स उपधिः वस्त्रादिस्तद्विषय: सङ्क्लेशः उपधिसङ्क्लेश:, एवमन्यत्रापि, नवरम् उवस्सय त्ति उपाश्रयो वसतिः, तथा कषाया एव कषायैर्वा सङ्क्लेश: कषायसङ्क्लेशः, तथा भक्त-पानाश्रित: सङ्क्लेशो भक्तपानसङ्क्लेशः, तथा मनसो मनसि वा सङ्क्लेशः, वाचा सङ्क्लेशः, कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सङ्क्लेश: अविशुद्ध्यमानता स ज्ञानसङ्क्लेश:, एवं दर्शन-चारित्रयोरपीति ।
एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह- दसेत्यादि, कण्ठ्यम् । [सू० ७४०] दसविधे बले पन्नत्ते, तंजहा-सोतिंदितबले जाव फासिंदितबले, णाणबले, दंसणबले, चरित्तबले, तवबले, वीरितबले ।
[टी०] असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह- दसेत्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं स्वार्थग्रहणसामर्थ्यम्, जाव त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलमतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्याद-तीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणम्, चारित्रबलं यद् दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवावर्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थिं क्षपयति, वीर्यमेव बलं वीर्यबलम्, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । [सू० ७४१] दसविधे सच्चे पण्णत्ते, तंजहाजणवय सम्मुति ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे, दसमे ओवम्मसच्चे य ॥१५८॥ दसविधे मोसे पन्नत्ते, तंजहाकोधे माणे माया, लोभे पेजे तहेव दोसे य । हास भते अक्खातित, उवघाते निस्सिते दसमे ॥१५९॥ दसविधे सच्चामोसे पन्नत्ते, तंजहा-उप्पन्नमीसते, विगतमीसते,