________________
७१०
श्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रम्, तत्र यदुद्गमेन आधाकर्म्मादिना षोडशविधेनोपहननं विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्पादनया धात्र्यादिदोषलक्षणया य: स उत्पादनोपघातः, जहा पंचट्ठाणे ि भणनात् तत् सूत्रमिह दृश्यम्, तच्चेदम् - एसणोवघाए एषणया शङ्कितादिभेदया यः स एषणोपघातः, परिकम्मोवघाए परिकर्म्म वस्त्र - पात्रादिसमारचनं तेनोपघातः स्वाध्यायस्य, श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, परिहरणोवघाए परिहरणा अलाक्षणिकस्याकल्प्यस्य वोपकरणस्य सेवा तया यः परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभि:, चारित्रोपघातः समितिभङ्गादिभिः, अचियत्तोवघाए ति अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, सारक्खणोवघाए त्ति संरक्षणेन शरीरादिविषये मूर्च्छया उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति ।
उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निरवद्यता,
किरणात् सत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः, परिहरणया वस्त्रादेः शास्त्रीयया सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनतः, अचियत्तस्य अप्रीतिकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थम् उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः ।
[सू० ७३९] दसविधे संकिले से पन्नत्ते, तंजहा - उवहिसं किले से, उवस्सयसंकिलेसे, कसायसंकिलेसे, भत्तपाणसंकिलेसे, मणसंकिलेसे, वतिसंकिलेसे, कायसंकिलेसे, णाणसंकिलेसे, दंसणसंकिलेसे, चरित - संकिलेसे।
दसविधे असंकिलेसे पन्नत्ते, तंजहा - उवहिअसंकिलेसे जाव चरित - असंकिलेसे ।
[टी०] इदानीं चारित्रस्यैव [चित्तस्यैव ] विशुद्धिविपक्षभूतमुपध्याद्युपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम् - दसेत्यादि, सङ्क्लेश: असमाधिः, उपधीयते