________________
दशममध्ययनं दशस्थानकम् ।
७०९
एवं भोगे त्ति भोगा: गन्ध-रस-स्पर्शा: ५, तथा सन्तोष: अल्पेच्छता, तत् सुखमेव आनन्दरूपत्वात् सन्तोषस्य, उक्तं च
आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो । विजा निच्छयसारा सुहाई संतोससाराई ॥ [ ] ति ६ ।
अत्थि त्ति येन येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्ति भवति जायते इति सुखमानन्दहेतुत्वादिति ७, सुहभोग त्ति शुभः अनिन्दितो भोगो विषयेषु भोगक्रियेति, स सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, निक्खम्ममेव त्ति निष्क्रमणं निष्क्रम: अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकता च प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थ:- निष्क्रमणमेव भवस्थानां सुखम्, निराबाधस्वायत्तानन्दरूपत्वात्, अत एवोच्यते- दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं देवाणं तेउल्लेसं वीतीवयति [भगवती० १४।९।१७] त्ति तथा
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ [प्रशम० गा० १२८] इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानमात्रजनकत्वाच्च तत्त्वतो न सुखं भवन्तीति ९, तत्तो अणाबाहे त्ति ततो निष्क्रमणसुखानन्तरम् अनाबाधं न विद्यते आबाधा जन्म-जरामरण-क्षुत्-पिपासादिका यत्र तदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तमम्, यत उक्तम्
नवि अत्थि माणुसाणं तं सोक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ [आव० नि० ९८०] ति १०। [सू० ७३८] दसविधे उवघाते पन्नत्ते, तंजहा-उग्गमोवघाते, उप्पायणोवघाते जधा पंचट्ठाणे जाव परिहरणोवघाते, णाणोवघाते, दंसणोवघाते, चरित्तोवघाते, अचियत्तोवघाते, सारक्खणोवघाते ।
दसविधा विसोधी पण्णत्ता, तंजहा-उग्गमविसोही, उप्पायणविसोही जाव सारक्खणविसोही । [टी०] निष्क्रमणसुखं चारित्रसुखमुक्तम्, तच्चानुपहतमनाबाधसुखायेत्यत