________________
दशममध्ययनं दशस्थानकम् ।
गाहा, कोहे त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह महाधनोऽहमिति, मायत्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः– नष्टो गोलक: इति, लोभे त्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, पिज्जत्ति प्रेमणि निश्रितम् अतिरक्तानां दासोऽहं तवेत्यादि, तहेव दोसे यत्ति द्वेषे निश्रितम्, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हासे त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित् कस्यचित् सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, भये त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, अक्खाइय त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः, उवघये निस्सियेत्ति उपघाते प्राणिवधे निश्रितम् आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनम्, मृषाशब्दस्त्वव्यय इति ।
सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- दसेत्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चामोसं ति, उप्पन्नमीसए त्ति उत्पन्नविषयं मिश्रं सत्यमृषा उत्पन्नमिश्रं तदेवोत्पन्नमिश्रकम्, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे व्यवहारतोऽस्य सत्यमृषात्वात्, श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवाऽदत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रिया[S]भावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति, १, विगतमीसए त्ति विगतविषयं मिश्रकं विगतमिश्रकम्, यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, [ उप्पन्नविगयमीसए त्ति उत्पन्नं च विगतं च उत्पन्नविगते, तद्विषयं मिश्रकम् उत्पन्नविगतमिश्रकम्, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाता: दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभाव इति ३,] जीवमीसए त्ति जीवविषयं सत्यासत्यं जीवमिश्रम्, यथा जीवन्मृतकृमिराशौ जीवराशिरिति ४, अजीवमीसए त्ति अजीवानाश्रित्य मिश्रमजीवमिश्रम्, यथा तस्मिन्नेव च प्रभूतमृतकृमिराशावजीवराशिरिति ५, जीवाजीवमिस्सए त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव
७१३