________________
७४०
द्रव्य
प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५ । एक्कारेत्यादि, एकादशोपासकानां श्रावकाणां प्रतिमाः प्रतिपत्तिविशेषाः दर्शन - व्रत - सामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६ । बारसेत्यादि, द्वादश भिक्षूणां प्रतिमा: अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते ७ । पज्जो इत्यादि, पर्याया ऋतुबद्धिकाः - क्षेत्र - काल - भावसम्बन्धिन उत्सृज्यन्ते उज्झ्यन्ते यस्यां सा निरुक्तविधिना पर्योसवना, अथवा परीति सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना, अथवा परिः सर्वथा एकक्षेत्रे जघन्यतः सप्ततिं दिनानि उत्कृष्टतः षण्भासान् वसनं निरुक्तादेव पर्युषणा, तस्याः कल्प आचारो मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च सक्कोसजोयणं विगड़नवय [ ]मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८ । तीसमित्यादि, त्रिंशन्मोहनीय कर्म्मणो बन्धस्थानानि बन्धकारणानि वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंसई [ आव० सं०] त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९। आजाइट्ठाणमिति आजननमाजाति: सम्मूर्च्छन- गर्भोपपाततो जन्म तस्याः स्थानं संसारस्तत् सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १० ।
प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते, दृश्यमानास्तु पञ्चाश्रव-पञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं पसिणाई ति प्रश्नविद्या: यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौमं वस्त्रम्, अद्दागो आदर्शः, अङ्गुष्ठो हस्तावयवः, बाहवो भुजा इति ।
बन्धदशानामपि बन्धाद्यध्ययनादि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः ।
दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्, तथाहि-- राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्श्य प्रतिगतः, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच - श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च