________________
६५४
कर्तेति, तथा परः प्रकृष्टः पण्डित: परपण्डितो बहुशास्त्रज्ञः, परो वा मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादी वादलब्धिसम्पन्नो यः परेण न जीयते, मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः । अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि अध्ययनविशेषा एवेति ।
[सू० ६८०] समणस्स णं भगवतो महावीरस्स णव गणा होत्था, तंजहागोदासगणे, उत्तरबलितस्सतगणे, उद्देहगणे, चारणगणे, उद्दवातितगणे, विस्सवातितगणे, कामिड्डितगणे, माणवगणे, कोडितगणे ।
[टी०] एते च नैपुणिका: साधवो गणान्त विनो भवन्तीति गणसूत्रं समणस्सेत्यादि कण्ठ्यम्, नवरं गणा: एकक्रिया-वाचनानां साधूनां समुदाया:, गोदासादीनि च तन्नामानीति ।
[सू० ६८१] समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पन्नत्ते, तंजहा-ण हणति, ण हणावेति, हणंतं णाणुजाणति, ण पतति, ण पतावेति, पतंतं णाणुजाणति, ण किणति, ण किणावेति, किणंतं णाणुजाणति ।
[टी०] उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह- समणेणमित्यादि, नवभि: कोटिभिः विभागैः परिशुद्धं निर्दोषं नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तम्, तद्यथा- न हन्ति साधु: स्वयमेव गोधूमादिदलनेन, न घातयति परेण गृहस्थादिना, [घ्नन्तं न] नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन अप्रतिषिद्धमनुमतम् [ ] इति वचनात् हननप्रसङ्गजननाच्चेति, आह च
कामं सयं न कुव्वइ जाणंतो पुण तहा वि तग्गाही। वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ (पिण्डनि० १११] इति । तथा हतं पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयम्, शेषं प्राग्वत् सुगमं च, इह चाद्या: षट् कोटयोऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोट्यामिति ।