SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ६२१ अष्टममध्ययनं अष्टस्थानकम् । तथा पौरस्त्य-पाश्चात्त्ये द्वे बाह्ये कृष्णराजी षडझे षट्कोटिके, औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्यो, सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तरा-श्चतुरस्राः। नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपक्तिरूपत्वाद्, इतिरुपप्रदर्शने, वा विकल्पे, मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात्, तथा मघा षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा, माघवती सप्तमपृथिवी तद्वद्या सा माघवतीति, वातपरिघादीनि तु तमस्कायसूत्रवद् व्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते- अभ्यन्तरपूर्वाया अग्रे अर्चिविमानं तत्र सारस्वता देवा:, पूर्वयो: कृष्णराज्योर्मध्ये अर्चिमालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नय:, दक्षिणयोर्मध्ये शुभङ्करे वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गर्दतोया:, अपरयोर्मध्ये सूराभे तुषिता:, अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेया:, बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति । अजहन्नुक्कोसेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यत: सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । [सू० ६२६] अट्ठ धम्मत्थिगातमज्झपतेसा पन्नत्ता १, अट्ठ अधम्मत्थिगातमज्झपतेसा पन्नत्ता २, एवं चेव अट्ठ आगासत्थिगातमज्झपतेसा पन्नत्ता ३, एवं चेव अट्ठ जीवमज्झपएसा पन्नत्ता ४ । [टी०] कृष्णराजयो यूज़लोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्याविष्करणाय सूत्रचतुष्टयम्- अट्ठ धम्मेत्यादि स्फुटम्, नवरं धर्मा-ऽधर्मा-ऽऽकाशानां मध्यप्रदेशा[स्ते अष्ट] ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशा:, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्त्तन-परिवर्तनपरास्तत्स्वभावत्वाद्ये ते अमध्यप्रदेशा इति । [सू० ६२७] अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy