________________
६२२
अणगारितं पव्वावेस्सति, तंजहा-पउमं, पउमगुम्मं, नलिणं, नलिणगुम्मं, पउमद्धतं, धणुद्धतं, कणगरहं, भरहं ।
[सू० ६२८] कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्टनेमिस्स अंतितं मुंडा भवेत्ता अगारातो अणगारितं पव्वतित्ता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तंजहा
पउमावई य गोरी, गंधारी लक्खणा सुसीमा य । जंबवती सच्चभामा, रुप्पिणी कण्हग्गमहिसीओ ॥९७॥ [टी०] जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थकरवक्तव्यतां सूत्रद्वयेनाह- अरहा णमित्यादि सुगमम्, नवरं महापउमे त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकर: श्रेणिकराजजीव इति इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, मुंडा भवित्त त्ति मुण्डान् भावयित्वेति ।
कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयम्- किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्टनेमिस्तत्र विहरति स्म, कृष्णः सपरिवार: पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासामासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, तत: कृष्णो वन्दित्वाऽभ्यधात्- अस्या भदन्त ! द्वारकावत्या, इत्यादि प्रश्नव्यतिकरादि स्वरूपं सर्वमन्तकृत्सूत्रादवसेयमिति। [सू० ६२९] वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलवत्थू पन्नत्ता ।
[टी०] एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाहवीरियपुव्वेत्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत्, चूलावस्तूनि त्वाचाराग्रवदिति ।
[सू० ६३०] अट्ठ गतीतो पन्नत्ताओ, तंजहा-णिरतगती, तिरियगती, जाव सिद्धिगती, गुरुगती, पणोल्लणगती, पब्भारगती ।
[टी०] वस्तुवीर्यादेव गतयोऽपि भवन्तीति ता दर्शयन्नाह– अट्ठ गतीओ इत्यादि सुगमम्, नवरं गुरुगइ त्ति भावप्रधानत्वान्निर्देशस्य गौरवेण ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गति: सा गुरुगतिरिति, या तु परप्रेरणात् सा