________________
अष्टममध्ययनं अष्टस्थानकम् ।
६२३
प्रणोदनगतिर्बाणादीनामिव, या तु द्रव्यान्तराक्रान्तस्य सा प्राग्भारगतिर्यथा नावादेरधोगतिरिति ।
[सू० ६३१] गंगा-सिंधु-रत्ता-रत्तवतिदेवीणं दीवा अट्ट अट्ठ जोयणाई आयामविक्खंभेणं पन्नत्ता ।
उक्कामुह-मेहमुह-विजुमुह-विजुदंतदीवा णं दीवा अट्ट अट्ठ जोयणसयाई आयामविक्खंभेणं पन्नत्ता ।
[सू० ६३२] कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते ।
अब्भंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते, एवं बाहिरपुक्खरद्धे वि ।
[टी०] अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाहगंगेत्यादि कण्ठ्यम्, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्तिनः ।
द्वीपाधिकारादन्तरद्वीपसूत्रम्, तत एव द्वीपवत: कालोदसमुद्रस्य प्रमाणसूत्रम्, तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुख-मेघमुख-विद्युन्मुख-विद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्द: सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दंष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठा अन्तरद्वीपा: अष्टावष्टौ योजनशतानि आयामविष्कम्भेण प्रज्ञप्ता: ।
[सू० ६३३] एगमेगस्स णं रन्नो चाउरंतचक्कवहिस्स अट्ठसोवण्णिते काकणिरतणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पन्नत्ते ।
[टी०] पुष्करा॰ च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽवतारं कुर्वनाह- एगमेगेत्यादि, एकै कस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्ति