________________
६२४
ग्रहणमिति, अष्टसौवर्णिकं काकणिरत्नम्, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जा एक: कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यत: सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशाम्रि अष्टकर्णिकम् अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानि मध्यखण्डानि, अश्रय: कोटयः, कर्णिका: कोणविभागा:, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेवेति, इदं च चतुरङ्गुलप्रमाणं चउरंगुलप्पमाणा सुवन्नवरकागणी नेय [बृहत्सं० ३०२] त्ति वचनादिति । [सू० ६३४] मागधस्स णं जोयणस्स अट्ट धणुसहस्साइं निधत्ते पण्णत्ते।
[टी०] अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह- मागहेत्यादि, मगधेषु भवं मागधं मगधदेशव्यवहृतं तस्य योजनस्य अध्वमानविशेषस्याष्ट धनुःसहस्राणि निहारो निर्गम: प्रमाणमिति यावत्, निहत्ते त्ति क्वचित्पाठः, तत्र निधत्तं निकाचितं निश्चितं प्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयम्, तथाहि
परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवद्धिया कमसो ॥ [अनुयोगद्वार० सू० ३३९]
तत्र परमाण्वादिभेदार्थो अनुयोगद्वारादेरवसेयः। [सू० ६३५] जंबू णं सुदंसणा अट्ट जोयणाई उटुंउच्चत्तेणं बहुमज्झदेसभाए, अट्ट जोयणाई विक्खंभेणं, सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं पन्नत्ता १। कूडसामली णं अट्ठ जोयणाई एवं चेव २॥
[सू० ६३६] तिमिसगुहा णमट्ट जोयणाई उटुंउच्चत्तेणं पन्नत्ता ३ । खंडगपवातगुहा णं अट्ठ एवं चेव ४ ।
[टी०] योजनप्रमाणमभिधायाथ योजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह- जंबू णमित्यादि, जम्बू: वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणां पूर्वार्द्ध शीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य