________________
४४३
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । गन्भं वक्तंते, हत्थुत्तराहिं गब्भातो गन्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ।
[टी०] केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश, सर्वाणि कण्ठ्यानि, नवरं पद्मप्रभः ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य स पञ्चचित्रः, चित्राभिरिति रूढ्या बहुवचनम्, च्युत: अवतीर्णः उपरिमोपरिम-ग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात्, च्युत्वा च गब्भं ति ग| कुक्षौ व्युत्क्रान्त: उत्पन्न: कौशाम्ब्यां धराभिधानमहाराजभार्याया: सुसीमानामिकाया: माघमासबहुलषष्ठ्याम्, जातो गर्भनिर्गमेन कार्तिकबहुलद्वादश्याम्, तथा मुण्डो भूत्वा केश-कषायाद्यपेक्षया अगारान्निष्क्रम्याऽनगारितां श्रमणतां प्रव्रजितो गतः, अनगारतया वा प्रव्रजितः कार्त्तिकशुद्धत्रयोदश्याम्, तथाऽनन्तं पर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् निर्व्याघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कट-कुड्याद्यावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं प्रधानं केवलवरं ज्ञानं च विशेषावभासं दर्शनं च सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नं जातं चैत्रशुद्धपञ्चदश्याम्, तथा परिनिर्वृतो निर्वाणं गतः मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । एवं चेव त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यम्, एवम् अनन्तरोक्तस्वरूपेण एतेन अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्रहणिगाथा अनुगन्तव्याः अनुसतव्या: शेषसूत्राभिलापनिष्पादनार्थम् । पउमप्पभस्सेत्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्य:, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवम्- ‘सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा– पुव्वासाढाहिं चुए चइत्ता गम्भं वक्कंते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवम्- पुष्पदन्तो नवमतीर्थकर: आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् इत्यादि वृत्तौ। एवं गाथात्रयोक्तानां