________________
५६६
एएसि णमित्यादि, सत्त त्ति स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वरस्वरूपाणि भवन्ति, तान्येव फलत आह- सज्जेणेत्यादि श्लोका: सप्त, षड्जेन लभते वृत्तिम्, अयमर्थ:- षड्जस्येदं लक्षणं स्वरूपमस्ति येन वृत्तिं जीवनं लभते षड्जस्वरयुक्तः प्राणी, एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावो मित्राणि च पुत्राश्च भवन्तीति शेषः । एसजं ति ऐश्वर्यं गन्धारे गीतयुक्तिज्ञा: वर्यवृत्तयः प्रधानजीविका: कलाभिरधिकाः कवयः काव्यकारिण: प्राज्ञाः सद्बोधाः, ये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा: धनुर्वेदादिपारगामिनस्ते भवन्तीति । शकुनेन श्येनलक्षणेन चरन्ति पापर्द्धिं कुर्वन्ति शकुनान् वा घ्नन्ति शाकुनिकाः, वागुरा मृगबन्धनम्, तया चरन्तीति वागुरिकाः, शूकरेण शूकरबन्धनार्थं चरन्तीति शूकरान् वा घ्नन्तीति शौकरिका:, मौष्टिका मल्ला इति । एतेसि णं त्ति एतेषामित्यादि, तत्र व्याख्यानगाथासजाइ तिहा गामो स समूहो मुच्छणाण विण्णेओ । ता सत्त एक्कमेक्के तो सत्त सराण इगवीसा ॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इव कुणई मुच्छं व सो व त्ति ॥ [ ]
कर्ता वा मूर्च्छित इव करोति, मूर्च्छन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनानां स्वरविशेषा: पूर्वगते स्वरप्राभृते भणिता:, अधुना तु तद्विनिर्गतेभ्यो भरत-वैशाखिलादिशास्त्रेभ्यो विज्ञेया इति ।
सत्तस्सरा कओ त्ति, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात्, का योनिरिति का जाति:, तथा कति समया येषु ते कतिसमया: उच्छ्वासा: किंपरिमाणकाला इत्यर्थः, तथाऽऽकारा: आकृतय: स्वरूपाणीत्यर्थः । सत्त सरा गाहा प्रश्ननिर्वचनार्था स्पष्टा, नवरं रुदितं योनि: जाति: समानरूपतया यस्य तद् रुदितयोनिकम्, पादसमया उच्छ्वासा यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः। आकारानाह- आइ गाहा, आदौ प्राथम्ये मृदु कोमलमादिमृदु गीतमिति गम्यते,