________________
सप्तममध्ययनं सप्तस्थानकम् ।
च स्वरस्य कारणम्, सा चासङ्ख्येयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूरस्वरान् गीतं वाश्रित्य सप्त उक्ताः ।
I
स्वरान्नामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रम्यते - एएसि णमित्यादि, तत्र नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमिति स्वरस्थानमुच्यते । सज्जमित्यादिश्लोकद्वयम्, ब्रूयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव, अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः, तया, यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्यभिहितम्, उरो वक्षस्तेन ऋषभस्वरम्, कंठुग्गएणं ति कण्ठश्चासावुग्रकश्च उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतम् उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गान्धारम्, जिह्वाया मध्यो भागो मध्यजिह्वा, तया मध्यमम्; तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं रेवतं वेति ।
सत्तसरा जीवनिस्सिय त्ति जीवनिःसृता [ जीवाश्रिता: ] जीवेभ्यो वा निःसृता निर्गताः । सज्जमित्यादिश्लोकः, नदति रौति, गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलकाः। अह कुसुम इत्यादिरूपकं गाथाभिधानम्,
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ।
५६५
तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत् पण्डितैर्ज्ञेया ॥ [ ] इति वचनात् ।
अथेति विशेषार्थ:, विशेषार्थता चैवम् - यथा गवेलका अविशेषेण मध्यमं स्वरं नदन्ति [न] तथा कोकिलाः पञ्चमम्, अपि तु कुसुमसम्भवे काल इति । कुसुमा बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । अजीवनिस्सिय त्ति तथैव, नवरं जीवप्रयोगादेव इति । सज्जमित्यादि श्लोकः, मृदङ्गो मर्दल:, गोमुखी काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा क्रियत इति, चउ इत्यादिश्लोकः, चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका वाद्यविशेषो दर्द्दरिकेति यत्पर्यायः, आडम्बरः पटह:, सप्तममिति निषादम् ।