________________
५६४
सत्त सरा ततो गामा, मुच्छणा एकविंसती । ताणा एकूणपण्णासा, संमत्तं सरमंडलम् ॥७८॥ [टी०] अथ कथं सप्त नयशतान्यसङ्ख्या वा नया: सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वरा: सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह, सुगमं चेदम्, नवरं स्वरणानि स्वरा: शब्दविशेषाः । सजेत्यादिश्लोकाः, षड्भ्यो जात: षड्जः, उक्तं हि
नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षभिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः ॥ [ ] तथा ऋषभो वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह चवायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।। नईत्यृषभवद् यस्मात् तस्मादृषभ उच्यते ॥ [ ] तथा गन्धो विद्यते यत्र स गन्धारः, स एव गान्धारः, गन्धवाहविशेष: इत्यर्थः, तथा मध्ये कायस्य भवो मध्यमः, यदवाचिवायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते ॥ [ ] तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरण: पञ्चमः, अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चम: स्वर:, यदभ्यधायि
वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहत: । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ [ ] तथा अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः, यदुक्तम्अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ [ ] पाठान्तरेण रेवतश्चैवेति । तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितम्निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ॥ [ ] इति । तदेवं स्वरा: सप्त वियाहिय त्ति व्याख्याता: । ननु कार्यं हि कारणायत्तम्, जिह्वा