________________
५०८
माणुस्सए भवे १, आरिए खेते जम्मं २, सुकुले पच्चायाती ३, केवलिपन्नत्तस्स धम्मस्स सवणता ४, सुतस्स वा सद्दहणता ५, सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं काएणं फासणता ६ ।
[टी०] यथा अधिकृताध्ययनावतारं प्ररूपिता जीवा:, अथ तेषामेव ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह- छट्ठाणाई इत्यादि, षट् स्थानानि षट् वस्तूनि सर्वजीवानां नो नैव सुलभानि सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थः, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा- मानुष्यको मनुष्यसम्बन्धी भवो जन्म, स नो सुलभ इति प्रक्रम: [आह च
ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ [ ] इति ।] एवमार्ये क्षेत्रे अर्द्धषड्विंशतिजनपदरूपे जन्म उत्पत्ति:, इहाप्युक्तम्सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥ [ ] इति । तथा सुकुले इक्ष्वाक्वादिके प्रत्यायाति: जन्म नो सुलभमिति, अत्राभिहितम्आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् ।। सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥ [ ] इति । तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचिसुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥ [ ] इति । [श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं चआहच्च सवणं लद्धं सद्धा परमदुल्लहा ।। सोच्चा नेआउयं मग्गं बहवे परिभस्सइ ॥ [उत्तरा० ३।९] त्ति ।]
तथा श्रद्धितस्य वा सामान्येन, प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य स्वविषये उत्पादितप्रीते:, रोचितस्य वा चिकीर्षितस्य, सम्यग् यथावत् कायेन शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता स्पर्शनमिति, यदाह
धम्मं पि हु सद्दहंतया दुल्लहया काएण फासया ।