________________
षष्ठमध्ययनं षट्स्थानकम् ।
५०९
इह कामगुणेसु मुच्छिया समयं गोयम ! मा पमायए ॥ [उत्तरा० १०।२०] इति ।।
मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम्
एयं पुण एवं खलु अन्नाण-पमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ एसा य असइदोसासेवणओ धम्मवजचित्ताणं । ता धम्मे जइयव्वं सम्मं सइ वीरपुरिसेहिं ॥ [उप० पद० १६,१८] ति । [सू० ४८६] छ इंदियत्था पन्नत्ता, तंजहा-सोतिंदियत्थे जाव फासिंदियत्थे, नोइंदियत्थे ।
[सू० ४८७] छव्विधे संवरे पन्नत्ते, तंजहा-सोतिंदियसंवरे जाव फासिंदियसंवरे, णोइंदियसंवरे । ___ छव्विहे असंवरे पन्नत्ते, तंजहा-सोतिंदियअसंवरे जाव फासिंदियअसंवरे, णोइंदियअसंवरे ।
[सू० ४८८] छव्विहे साते पन्नत्ते, तंजहा-सोतिंदियसाते जाव नोइंदियसाते। छव्विहे असाते पन्नत्ते, तंजहा-सोतिंदियअसाते जाव नोइंदियअसाते ।
[सू० ४८९] छविहे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउसग्गारिहे, तवारिहे ।
[टी०] मानुषत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रियार्थानां संवरे असंवरे च सति, तयोश्च सतो: सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्कमाह, सुगमं चेदम्, नवरं छ इंदियत्थ त्ति मनस आन्तरकरणत्वेन करणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तम्, तत्र श्रोत्रेन्द्रियादीनामा विषया: शब्दादय:, नोइंदियत्थ त्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं मन: सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सदृशमिति