________________
६३६
[सू० ६५१] अरहतो णं अरिट्टनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिता वादिसंपता होत्था ।
[टी०] अनन्तरोक्तविमाननिवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह- अरहओ इत्यादि सुगमम् ।
[सू० ६५२] अट्ठसमतिए केवलिसमुग्घाते पन्नत्ते, तंजहा-पढमे समते दंडं करेति, बीए समते कवाडं करेति, ततिए समते मंथं करेति, चउत्थे समते लोगं पूरेति, पंचमे समते लोगं पडिसाहरति, छठे समते मंथं पडिसाहरति, सत्तमे समते कवाडं पडिसाहरति, अट्टमे समते दंडं पडिसाहरति ।
[टी०] एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित् केवली भूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थं केवलिसमुद्घातं कृतवानिति समुद्घातमाहअद्वेत्यादि, तत्र समुद्घातं प्रारभमाण: प्रथममेवावर्जीकरणमभ्येति, अन्तर्गौहूर्त्तिकम् उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, तत: समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगत: करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति, तृतीये समये तदेव दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानं करोति लोकान्तप्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशानामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटै: सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे मन्थानमुपसंहरति, घनतरसङ्कोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च
औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु ॥