________________
अष्टममध्ययनं अष्टस्थानकम् ।
६३५ [टी०] सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयतयाह- अट्टहीत्यादि कण्ठ्यम्, नवरम् अष्टासु स्थानेषु वस्तुषु सम्यग् घटितव्यम् अप्राप्तेषु योग: कार्य:, यतितव्यं प्राप्तेषु तदवियोगार्थं यत्न: कार्यः, पराक्रमितव्यं शक्तिक्षयेऽपि तत्पालने पराक्रम: उत्साहातिरेको विधेय इति, किं बहुना ? एतस्मिन् अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं न प्रमाद: कार्यो भवति, अश्रुतानाम् अनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यम् अभ्युपगन्तव्यं भवति १, एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै मनोविषयीकरणाय उपधारणतायै अविच्युति-स्मृति-वासनाविषयीकरणायेत्यर्थ: २, विकिंचण त्ति विवेचना निजरेत्यर्थः. तस्यै, अत एवात्मनो विशुद्धि: विशोधना अकलकत्वं तस्यै इति ४, असगृहीतस्य अनाश्रितस्य परिजनस्य शिष्यवर्गस्येति ५, सेहं ति विभक्तिपरिणामाच्छैक्षकस्य अभिनवप्रव्रजितस्य आयारगोयरं ति आचारः साधुसमाचारस्तस्य गोचरो विषयो व्रतषट्कादिराचारगोचरः, अथवा आचारश्च ज्ञानादिविषय: पञ्चधा गोचरश्च भिक्षाचर्येत्याचारगोचरम्, इह विभक्तिपरिणामादा-चारगोचरस्य ग्राहणतायां शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, अगिलाए त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेष: ७, अधिगरणंसि त्ति विरोधे, तत्र साधर्मिकेषु, निश्रितं राग: उपाश्रितं द्वेषः, अथवा निश्रितम् आहारादिलिप्सा उपाश्रितं शिष्य-कुलाद्यपेक्षा, तद्वर्जितो य: सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः प्राप्तो य: स तथा, स भवेदिति शेषः, तेन च तथाभूतेन कथं नु केन प्रकारेण साधर्मिका साधवोऽल्पशब्दाः विगतराटीमहाध्वनय: अल्पझंझा विगततथाविधविप्रकीर्णवचना: अल्पतुमुतुमा: विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाऽधिकरणस्याभ्युत्थातव्यं भवतीति ८।
[सू० ६५०] महासुक्क-सहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उडुंउच्चत्तेणं पन्नत्ता ।
[टी०] अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाहमहासुक्केत्यादि सुगमम् ।