________________
दशममध्ययनं दशस्थानकम् ।
७५१
इन्द्राधिकारादेव तद्विमानान्याह -- एते इत्यादि, परियानं देशान्तरगमनम्, तत् प्रयोजनं येषां तानि पारियानिकानि गमनप्रयोजनानीत्यर्थः, यानं शिबिकादि तदाकाराणि विमानानि देवाश्रया यानविमानानि, न तु शाश्वतानि, नगराकाराणीत्यर्थः, पालए इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानि, [ यावत्करणात् 'सोमणसे ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, ] आभियोगिकाश्चैते देवा विमानीभवन्तीति ।
[सू० ७७०] दसदसमिता णं भिक्खुपडिमा एगेणं रातिंदियसतेणं अद्धछट्ठेहिं य भिक्खासतेहिं अधासुत्ता जाव आराधिता व भवति ।
[टी०] एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनीं प्रतिमां स्वरूपत आह- दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमा प्रतिज्ञा भिक्षुप्रतिमा, एकेनेत्यादि, दशदशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, अहासुत्तमित्यादि, अहासुत्तं इत्यादि प्रागिव ।
[सू० ७७१] दसविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पढमसमयएगेंदिता, अपढमसमयएगेंदिता एवं जाव अपढमसमयपंचेंदिता १ ।
दसविधा सव्वजीवा पन्नत्ता, तंजहा - पुढविकातिता जाव वणस्सतिकातिता, बेतिंदिता जाव पंचेंदिता, अणिंदिता २।
अधवा दसविधा सव्वजीवा पन्नत्ता, तंजहा - पढमसमयनेरतिता, अपढमसमयनेरतिता जाव अपढमसमयदेवा, पढमसमयसिद्धा, अपढमसमयसिद्धा ३।
[टी०] प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च दसेत्यादिना सूत्रत्रयेणाह, तच्च सुगमम्, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रह:, विपरीतास्त्वितरे, एवं द्वि-त्रि-चतुः-पञ्चेन्द्रिया वाच्या:, एवं जावेत्यादि, अणिदिय त्ति अनिन्द्रियाः सिद्धाः अपर्याप्तका उपयोगतः केवलिनश्चेति ।