________________
६५६
५,
तुषिता: ६, अव्याबाधा: ७, आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्टास्तु कृष्णराजिमध्यभागवर्त्तिनि रिष्टाभविमानप्रस्तटे परिवसन्तीति ।
[सू० ६८६ ] नवविधे आउपरिणामे पन्नत्ते, तंजहा - गतिपरिणामे, गतिबंधणपरिणामे, ठितिपरिणामे, ठितिबंधणपरिणामे, उडुंगारवपरिणामे, अधेगारवपरिणामे, तिरितंगारवपरिणामे दीहंगारवपरिणामे, रहस्संगारवपरिणामे ।
,
[टी०] अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनःश्चायुष्मन्तो भवन्तीत्यायुःपरिणामभेदानाह— नवविहे इत्यादि, आउपरिणामे त्ति आयुषः कर्मप्रकृतिविशेषस्य परिणामः स्वभावः शक्तिः धर्म्म इत्यायुः परिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणाम: १, तथा येनायुः स्वभावेन प्रतिनियतगतिकर्म्मबन्धो भवति यथा नारकायुः स्वभावेन मनुष्य - तिर्यग्गतिनामकर्म बध्नाति न देव-नरकगतिनामकर्मेति स गतिबन्धनपरिणाम: २, तथा आयुषो या अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणाम: ३, तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थितिं बध्नाति स स्थितिबन्धपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४, तथा येनायु:स्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगौरवपरिणाम:, इह गौरवशब्दो गमनपर्याय: ५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्य दीर्घं दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं यस्माद् ह्रस्वं गमनं स ह्रस्वगौरवपरिणाम:, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९ ।
[सू० ६८७] णवणवमिता णं भिक्खुपडिमा एगासीतीते रातिंदिएहिं चउहिं य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जाव आहिता व भवति ।
[टी०] अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायुः परिणामविशेषे सति तप:शक्तिर्भवतीति तपोविशेषाभिधानायाह-- नवनवमित्यादि कण्ठ्यम्, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नव नवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव