________________
नवममध्ययनं नवस्थानकम् ।
६७५ भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि, तासां च स्वरूपमावश्यकान्मन्तव्यम्, षड्जीवनिकायान् रक्षणीयतया, धम्मं ति एवंरूपं चारित्रात्मकं सुगतौ जीवस्य धारणाद् धर्मं श्रुतधर्मं च देशयन् प्ररूपयन्निति ।
अथ महापद्मस्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदाद् भेदे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह–से जहेत्यादि, से इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः, यथेत्युपमार्थः, नामए त्ति वाक्यालङ्कारे, अज्जो त्ति हे आर्या: ! शिष्यामन्त्रणम्, एगे आरंभट्ठाणे त्ति आरम्भ एव स्थानं वस्तु आरम्भस्थानमेकमेव तत् प्रमत्तयोगलक्षणत्वात् तस्य, यदाह- सव्वो पमत्तजोगो समणस्स उ होइ आरंभो [ ] इति, इत: शेषमावश्यके प्राय: प्रसिद्धमिति न लिखितम् ।
तथा फलकं प्रतलमायतम्, काष्ठं स्थूलमायतमेव, लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः, आहाकम्मिए इ व त्ति आधाय आश्रित्य साधून कर्म सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म, तदेवाधाकर्मिकम्, उक्तं च
सच्चित्तं जमचित्तं साहूणऽट्ठाए कीरए जं च । अचित्तमेव पच्चई आहाकम्मं तयं भणियं ॥ [पञ्चा० १३।७] ति ॥
इह चकार: सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरः, वा विकल्पार्थः, उद्देसियं ति अर्थिन: पाषण्डिन: श्रमणानिर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, [उद्देशे भवमौद्देशिकमिति शब्दार्थ:,] यद्वा तथैव यदुद्वरितं सद् दध्यादिभिर्विमिश्रय दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम्
उद्दिसिय साहुमाई ओमच्चय भिक्खवियरणं जं च । उव्वरियं मीसेउं तविउं उद्देसियं तं तु ॥ [पञ्चा० १३॥८] इति । मीसजाए व त्ति गृहि-संयतार्थमुपस्कृततया मिश्रं जातम् उत्पन्नं मिश्रजातम् ।
अज्झोयरए त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः। पूइए त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकम् । कीए त्ति द्रव्येण भावेन वा क्रीतं स्वीकृतं