SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ६९८ भाविते, बाहिराबाहिरे, सासतासासते, तधणाणे, अतधणाणे । [टी०] अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह– दसविहे दवियेत्यादि, अनुयोजनं सूत्रस्यार्थेन सम्बन्धनम्, अनुरूपोऽनुकूलो वा योग: सूत्रस्याभिधेयार्थं प्रति व्यापारोऽनुयोग:, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा- चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य जीवादेरनुयोगो विचारो द्रव्यानुयोगः, स च दशधा, तत्र दवियाणुओगे त्ति यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगः, यथा द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तै: पर्यायैरिति द्रव्यं गुण-पर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः, न हि तद्वियुक्तो जीव: कदाचनापि संभवति जीवत्वहानेः, तथा पर्याया अपि मानुषत्व-बाल्यादयः कालकृतावस्थालक्षणाः तत्र सन्त्येवेत्यतो भवत्यसौ गुण-पर्यायवत्त्वात् द्रव्यमित्यादिः द्रव्यानुयोग: १, तथा माउयाणुओगे त्ति, इह मातृकेव मातृका प्रवचनपुरुषस्योत्पाद-व्यय-ध्रौव्यलक्षणा पदत्रयी, तस्या अनुयोगो यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनाद् अनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागम-कृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणा-ऽभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोक-परलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पाद-व्यय-ध्रौव्ययुक्तमतो द्रव्यमित्यादिः मातृकापदानुयोग: २, तथा एगट्ठियाणुओगे त्ति, एकश्चासावर्थश्च अभिधेयो जीवादिः स येषामस्ति त एकार्थिका: शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, [एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीव: प्राणी भूत: सत्त्वः, एकार्थिकानां वाऽनुयोगो यथा] जीवनात् प्राणधारणाजीव:, प्राणानाम् उच्छ्वासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात् सत्त्व: इत्यादिः ३, तथा करणाणुओगे त्ति क्रियते एभिरिति करणानि तेषामनुयोग: करणानुयोगः, तथाहि- जीवद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि काल-स्वभाव-नियति-पूर्वकृतानि, नैकाकी जीव: किञ्चन कर्तुमलमिति,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy