________________
दशममध्ययनं दशस्थानकम् ।
परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, उदकमाला उदकशिखा वेलेत्यर्थः, दश योजनसहस्राणि विष्कम्भतः, उच्चैस्त्वेन तु षोडश सहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, सव्वे वीत्यादि, सर्वेऽपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि महापाताला: पातालकलशाः वलयामुख - केयूर - जूयक- ईश्वरनामानश्चतुः - स्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणम्, दश दशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, उद्वेधेन गाधेनेत्यर्थ:, मूले बुध्ने दश सहस्राणि मध्ये लक्षम्, कथम् ?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां या एक प्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, सर्वेऽपीति सप्त सहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्येवं-सङ्ख्या:, क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रम्, मूले मुखे च विष्कम्भेण शतम्, कुड्यबाहल्येन च दश । धायईत्यादि, मंदर त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रतः सिद्धम् ।
सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशति: प्रत्येकं पञ्चसु हैमवतैरण्यवत - हरिवर्ष- रम्यकेष्वेषां शब्दावती-विकटावती-गन्धावती-मालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैताढ्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्त्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्चतुष्टयव्यवस्थित-पुष्करिणीमध्यवर्त्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुः- स्थानकाभिहितस्वरूपाः । रुचको रुचकाभिधानस्त्रयोदशद्वीपवर्त्ती चक्रवालपर्वतः । कुण्डलाभिधान एकादशद्वीपवर्त्ती चक्रवालपर्वतः एव, एवं कुण्डलवरे वीत्यनेनेह कुण्डलवर उद्वेध - मूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्तः, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्त:
दस चेव जोयणसए बावीसे वित्थडो उ मूलम्मि ।
चत्तारि जोयणसए चउवीसे वित्थडो सिहरे || [द्वीपसागर० ७४] त्ति ।
६९७
[ अत्र तुल्यं ] रुचकस्यापि तत्रायं विशेष उक्त :- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति ।
[सू० ७२६] दसविधे दवियाणुओगे पन्नत्ते, तंजहा -दवियाणुओगे, माउयाणुओगे, एगट्ठियाणुओगे, करणाणुओगे, अप्पिताणप्पिते, भाविता