________________
दशममध्ययनं दशस्थानकम् । मृद्रव्यं वा कुलाल-चक्र-चीवर-दण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति ४, तथा अप्पियाणप्पिए त्ति द्रव्यं ह्यर्पितं विशेषितं यथा जीवद्रव्यं किंविधम् ? संसारीति, संसार्यपि त्रसरूपम्, त्रसरूपमपि पञ्चेन्द्रियम्, तदपि नररूपमित्यादि, अनर्पितम् अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोग: ५, तथा भावियाभाविए त्ति भावितं वासितं द्रव्यान्तरसंसर्गत: अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितं चेतरभावितम्, तत् द्विविधमपि वामनीयमवामनीयं च, तत्र वामनीयं यत् संसर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादि द्रव्यमपि, ततश्च भावितं च अभावितं च भाविताभावितम्, एवंभूतो विचारो द्रव्यानुयोग इति ६, तथा बाहिराबाहिरे त्ति बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि ७, तथा सासयासासए त्ति शाश्वताशाश्वतम्, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्याय-प्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाणे त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात्, इत्येवमन्यो द्रव्यानुयोग इति ९, अतहणाणे त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा चक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि- एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत् परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०। _[सू० ७२७] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिंच्छिकूडे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नत्ते ।
चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो सोमप्पभे उप्पातपव्वते दस जोयणसताई उडुंउच्चत्तेणं, दस गाउयसताइं उव्वेहेणं, मूले