________________
४५२
कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् तत्र अटव्याम् एगयउ त्ति एकत: एकत्रेत्यर्थः स्थानादि कुर्वन्त: आगमोक्तसामाचार्या नातिक्रामन्ति १ । तथा राजधानी यत्र राजा अभिषिच्यते, वासमुपगता: निवासं प्राप्ता इत्यर्थः, एगइया यत्थ त्ति एकका एकतरा निर्ग्रन्था निर्ग्रन्थिका वा, च: पुनरर्थः, अत्र ग्रामादौ, उपाश्रयं गृहपतिगृहादिकमिति २, तथा अत्थे त्ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा एगइया एके नागकुमारावासादौ वासमुपगता: अथवा अत्थे त्ति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एव स्थानादि कुर्वाणा नातिक्रामन्तीति ३, तथा आमुष्णन्तीत्यामोषका: चौरा दृश्यन्ते, ते च इच्छन्ति निर्ग्रन्थिका: चीवरवडियाए त्ति चीवरप्रतिज्ञया 'वस्त्राणि ग्रहीष्यामः' इत्यभिप्रायेण प्रतिग्रहीतुं यत्रेति गम्यते, तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकत: स्थानादिकमिति ४, तथा मैथुनप्रतिज्ञया मैथुनार्थमिति ५। इदमपवादसूत्रम्, उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्च वृत्तौ।
अचेल: क्षिप्तचित्तत्वादिना, क्षिप्तचित्त: शोकेन, तत्प्रतिजागरका: साधवो न विद्यन्ते ततो निर्ग्रन्थिका: पुत्रादिकमिव तं सङ्गोपायन्तीति न ततोऽप्यसावाज्ञामतिक्रामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो देवाधिष्ठित: ३, उन्मादप्राप्तो वातादिक्षोभात् ४, निर्ग्रन्थिकया कारणवशात् पुत्रादिः प्रताजित:, स च बालत्वादचेलो महानपि वा तथाविधवृद्धत्वादिनेति ५ । प्रथमपश्चिमतीर्थवर्तित्वादचेल एव। मध्यमतीर्थसाधूनामेव[वं]घोषणादन्यत्र सचेलत्वाभ्युपगम्य[मा]दिति। साध्व्यस्तु सदैव वस्त्रापहाराभावे सचेला एव। अत्र चोत्सर्गापवादौ भाष्याभिहितावेव ।
[सू० ४१८] पंच आसवदारा पन्नत्ता, तंजहा- मिच्छत्तं, अविरती, पमादो, कसाया, जोगा । पंच संवरदारा पन्नत्ता, तंजहा- सम्मत्तं, विरती, अपमादो, अकसातित्तमजोगित्तं।
पंच दंडा पन्नत्ता, तंजहा- अट्ठादंडे, अणट्ठादंडे, हिंसादंडे, अकस्मादंडे, दिट्ठीविप्परियासितादंडे ।
[टी०] धर्मं नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च