________________
७४२
सौधर्माद् बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्– वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ, स च धर्म्ममचकथत् प्राव्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्वा सौधर्म्ममगमत्, ततश्च्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, तत: पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षै: द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्या: प्रक्ष्यति ताश्च धर्म्यं कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति ।
तथा स्थविरः सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता, तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमम्, शेषाणि त्रीण्यप्रतीतानीति ।
संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्ययनानां पुनरयमर्थ:- खुड्डिएत्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महतीविमानप्रविभक्तिरिति, अङ्गस्य आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका । वग्गचूलियत इह वर्गः अध्ययनादिसमूहः, यथा अन्तकृद्दशास्वष्टौ वर्गाः, तस्य चूलिका वर्गचूलिका । विवाहचूलिय त्ति व्याख्या भगवती, तस्याश्चलिका व्याख्याचूलिका । अरुणोपपात इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातः, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देव: स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोभ्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया त्या दिव्यया विभूत्या दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुद्ध्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति - सुस्वाध्यायितं