________________
७२५
दशममध्ययनं दशस्थानकम् । दसेत्यादि, समाचरणं समाचारः, तद्भाव: सामाचार्यम्, तदेव सामाचारी संव्यवहार इत्यर्थः, इच्छेत्यादि सार्द्धः श्लोकः, इच्छ त्ति एषणमिच्छा, करणं कारः, तत्र कारशब्द: प्रत्येकमभिसम्बन्धनीयः, इच्छया बलाभियोगमन्तरेण कार इच्छाकारः, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोग: स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च
जइ अब्भत्थेज परं कारणजाए करेज व से कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥ [आव० नि० ६६८] त्ति ।
तथा मिथ्या वितथमनृतमिति पर्याया:, मिथ्या करणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे विदितजिनवचनसारा: साधवस्तक्रियावैतथ्यदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम्, भणितं च
संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयं ति वियाणिऊण मिच्छ त्ति कायव्वं ॥ [पञ्चा० १२।१०] ति ।
तथा करणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूप:, गदितं चवायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयं ति तहा पडिसुणणाए तहक्कारो ॥ [पञ्चा० १२।१५] त्ति, अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि चकप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजम-तवडगस्स उ अविगप्पेणं तहक्कारो ॥ [पञ्चा० १२।१४] त्ति ।
आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, च: समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छत: आवश्यकयोगयुक्तस्य साधोर्भवति, आह हिकजे गच्छंतस्स उ गुरुनिद्देसेण सुत्तनीईए । आवस्सिय त्ति नेया सुद्धा अन्नत्थजोगाओ ॥ [पञ्चा० १२।१८] अन्वर्थयोगादित्यर्थः । तथा निषेधेन निर्वृत्ता नैषेधिकी व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह