________________
७३५
दशममध्ययनं दशस्थानकम् । दसारमंडले ति त, आयरियविप्पडिवत्ती, उवज्झातविप्पडिवत्ती, भावणा, विमुत्ती, सातो, कम्मे ८।
दोगेहिदसाणं दस अज्झयणा पन्नत्ता, तंजहा-वाते, विवाते, उववाते, सुखेत्ते, कसिणे, बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा, हारे, रामगुत्ते त, एमेते दस आहिता ९।।
दीहदसाणं दस अज्झयणा पन्नत्ता, तंजहा-चंदे, सूरे त, सुक्के त, सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे ति त, थेरे संभूतविजते, थेरे पम्ह, ऊसासनीसासे १०॥
संखेवितदसाणं दस अज्झयणा पन्नत्ता, तंजहा-खुड्डिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, वियाहचूलिया, अरुणोववाते, वरुणोववाए, गरुलोववाते, वेलंधरोववाते, वेसमणोववाते ११।
[टी०] सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह- दस दसेत्यायेकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या दसाओ त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, कर्मण: अशुभस्य विपाकः फलं कर्मविपाक: तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशा: कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्राविवरिष्यमाणत्वादिति । __ तथा साधून् उपासते सेवन्त इत्युपासका: श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धाः दशा दशाध्ययनोपलक्षिता उपासकदशा: सप्तममङ्गमिति । तथा अन्तो विनाश:, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकरादयः, तेषां दशा: अन्तकृद्दशा:, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम् । तथा उत्तरः प्रधान:, नास्योत्तरो विद्यत इत्यनुत्तर: उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिका: सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः,