________________
६४३
नवममध्ययनं नवस्थानकम् । प्रकृताध्ययनावतारद्वारेणाह– अभिणंदणेत्यादि कण्ठ्यम् ।
[सू० ६६५] नव सब्भावपयत्था पन्नत्ता, तंजहा-जीवा, अजीवा, पुण्णं, पावं, आसवो, संवरो, निजरा, बंधो, मोक्खो ।
[टी०] अभिनन्दन-सुमतिजिनाभ्यां च सद्भूता: पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयन्नाह– नव सब्भावेत्यादि, सद्भावेन परमार्थेनाऽनुपचारेणेत्यर्थः पदार्था वस्तूनि सद्भावपदार्थाः, तद्यथा- जीवाः सुख-दुःख-ज्ञानोपयोगलक्षणा:, अजीवास्तद्विपरीताः, पुण्यं शुभप्रकृतिरूपं कर्म, पापं तद्विपरीतं कर्मैव, आश्रूयते गृह्यते कर्मानेनेत्याश्रव: शुभाशुभकर्मादानहेतुरिति भावः, संवरः आश्रवनिरोधो गुप्त्यादिभि:, निर्जरा विपाकात् तपसा वा कर्मणां देशत: क्षपणा, बन्ध: आश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्ष: कृत्स्नकर्मक्षयादात्मन: स्वात्मन्यवस्थानमिति ।
ननु जीवाजीवव्यतिरिक्ता: पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात्, तथाहिपुण्य-पापे कर्मणी, बन्धोऽपि तदात्मक एव, कर्म च पुद्गलपरिणाम:, पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूप: परिणामो जीवस्य, स चात्मानं पुद्गलांश्च विरहय्य कोऽन्य: ?, संवरोऽप्याश्रवनिरोधलक्षणो देश-सर्वभेद आत्मन: परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीव: कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यम्, अत एवोक्तमिहैव जदत्थिं च णं लोए तं सव्वं दप्पडोयारं, तंजहा- जीव च्चेय अजीव च्चेय [सू० ४९], अत्रोच्यते, सत्यमेतत् किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्य-विशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्त्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यम्, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्य-पापे मुख्यानि तत्त्वानि संसारकारणानि, संवर-निर्जरे च मोक्षस्य, तदा संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यत: षट्कोपन्यास: मुख्यसाध्यख्यापनार्थं च मोक्षस्येति ।
[सू० ६६६] णवविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचेंदिया १ ।