________________
नवममध्ययनं नवस्थानकम् ।
जोधाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती, माणवते दंडनीती य ॥१२५॥
विहि नाडगविही, कव्वस्स चउव्विहस्स उप्पत्ती । संखे महानिहिम्मी, तुडियंगाणं च सव्वेसिं ॥ १२६॥ चक्कट्ठपतिट्ठाणा, अट्टुस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिता जह्नवीय मुहे ॥ १२७॥ वेरुलियमणिकवाडा, कणगमया विविधरतणपडिपुणा । ससिसूरचक्कलक्खणअणुसमजुगबाहुवतणा त ॥१२८॥ पलिओवमट्टितीता, णिधिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा, अक्किज्जा आहिवच्चं च ॥ १२९ ॥ एते ते नव निहितो, पभूतधणरयणसंचयसमिद्धा । जे वसमुवगच्छंती, सव्वेसिं चक्कवट्टीणं ॥ १३०॥
[टी०] इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्त्तिनां सम्बन्धि निधिप्रकरणमाहएगमेगे इत्यादि सुगमम्, नवरं
सप्पे १ पंडुए २ पिंगले य ३ सव्वरयणे य ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ॥ नेसप्पम्मि गाहा, इह निधान - तन्नायकदेवयोरभेदविवक्षया नैसर्पो देवः, तस्मिन् सति, तत इत्यर्थः, निवेशा: स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवर्तिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु निधिष्ववतरन्ति, नवनिधानतया व्यवह्रियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा निवेशनानि ते नैसर्प्पनिधौ वर्त्तन्ते, नैसर्पनिधितया व्यवह्रियन्त इति भाव:, तत्र ग्रामो जनपदप्रायलोकाधिष्ठितः, आकरो यत्र सन्निवेशे लवणाद्युत्पद्यते, न करो यत्रास्ति तद् नकरम्, पत्तनं देशीस्थानम्, द्रोणमुखं जलपथ- स्थलपथयुक्तम्, मडम्बम् अविद्यमानप्रत्यासन्नवसिमम्, स्कन्धावारः कटकनिवेशः, गृहं भवनमिति १ ।
गणित गाहा, गणितस्य दीनारादि - पूगफलादिलक्षणस्य, चकारस्य व्यवहितः
६४९